वांछित मन्त्र चुनें

येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑। यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥२ ॥

मन्त्र उच्चारण
पद पाठ

येन॑। कर्मा॑णि। अ॒पसः॑। म॒नी॒षिणः॑। य॒ज्ञे। कृ॒ण्वन्ति॑। वि॒दथे॑षु। धीराः॑ ॥ यत्। अ॒पू॒र्वम्। य॒क्षम्। अ॒न्तरित्य॒न्तः। प्र॒जाना॒मिति॑ प्र॒ऽजाना॑म्। तत्। मे॒। मनः॑। शि॒वस॑ङ्कल्प॒मिति॑ शि॒वऽस॑ङ्कल्पम्। अ॒स्तु ॥२ ॥

यजुर्वेद » अध्याय:34» मन्त्र:2


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे परमेश्वर वा विद्वन् ! जब आपके सङ्ग से (येन) जिस (अपसः) सदा कर्म धर्मनिष्ठ (मनीषिणः) मन का दमन करनेवाले (धीराः) ध्यान करनेवाले बुद्धिमान् लोग (यज्ञे) अग्निहोत्रादि वा धर्मसंयुक्त व्यवहार वा योगयज्ञ में और (विदथेषु) विज्ञानसम्बन्धी और युद्धादि व्यवहारों में (कर्माणि) अत्यन्त इष्ट कर्मों को (कृण्वन्ति) करते हैं, (यत्) जो (अपूर्वम्) सर्वोत्तम गुण, कर्म, स्वभाववाला (प्रजानाम्) प्राणिमात्र के (अन्तः) हृदय में (यक्षम्) पूजनीय वा सङ्गत हो के एकीभूत हो रहा है, (तत्) वह (मे) मेरा (मनः) मनन-विचार करना रूप मन (शिवसङ्कल्पम्) धर्मेष्ट (अस्तु) होवे ॥२ ॥
भावार्थभाषाः - मनुष्यों को चाहिये कि परमेश्वर की उपासना, सुन्दर विचार, विद्या और सत्सङ्ग से अपने अन्तःकरण को अधर्माचरण से निवृत्त कर धर्म के आचरण में प्रवृत्त करें ॥२ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(येन) मनसा (कर्माणि) कर्त्तुरीप्सिततमानि क्रियमाणानि (अपसः) अपः कर्म तद्वन्तः सदा कर्मनिष्ठाः (मनीषिणः) मनस ईषिणो दमनकर्त्तारः (यज्ञे) अग्निहोत्रादौ धर्मेण सङ्गतव्यवहारे योगाभ्यासे वा (कृण्वन्ति) कुर्वन्ति (विदथेषु) विज्ञानयुद्धादिव्यवहारेषु (धीराः) ध्यानवन्तो मेधाविनः। धीर इति मेधाविनामसु पठितम् ॥ (निघं०३.१५) (यत्) (अपूर्वम्) अनुत्तमगुणकर्मस्वभावम् (यक्षम्) पूजनीयं सङ्गतं वा। अत्रौणादिकः सन् प्रत्ययः। (अन्तः) मध्ये (प्रजानाम्) प्राणिमात्राणाम् (तत्) (मे) मम (मनः) मननविचारात्मकम् (शिवसङ्कल्पम्) धर्मेष्टम् (अस्तु) ॥२ ॥

पदार्थान्वयभाषाः - हे परमेश्वर वा विद्वन् ! भवत्सङ्गेन येनापसो मनीषिणो धीरा यज्ञे विदथेषु च कर्माणि कृण्वन्ति यदपूर्वं प्रजानामन्तर्यक्षं वर्त्तते, तन्मे मनः शिवसङ्कल्पमस्तु ॥२ ॥
भावार्थभाषाः - मनुष्यैः परमेश्वरस्योपासनेन सुविचारविद्यासत्सङ्गैरन्तःकरणधर्माचारान्निवर्त्य धर्माचारे प्रवर्त्तनीयम् ॥२ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - माणसांनी परमेश्वराची उपासना करावी. उत्तम विचार, विद्या, सत्संग यांनी आपल्या अंतःकरणाला अधर्माचरणापासून निवृत्त करून धर्माचरणात प्रवृत्त करावे.